This page has been fully proofread once and needs a second look.


ब्रह्म । अज्ञानादिसकलजडसमूहोऽवस्तु । अ-
ज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं

[commentary]
 
क्रियत इति चेत्, तर्हि 'नेह नाना' इत्यादिश्रुत्या अत्यन्ता-
भावसामानाधिकरण्यमप्यनुभूयत इति तन्न विरुद्धम् । किं
च प्रपञ्चसत्त्ववादिनापि प्रागभावप्रध्वंसान्योन्याभावसामा-
नाधिकरण्यं घटस्य मृत्पिण्डे स्वीक्रियते । एवं च अत्यंन्ता-
भावस्था
यन्ताभावस्यापि घटसामानाधिकरण्यं वाच्यम्, घटाभावत्वात् ।
किं च मृत्पिण्डघटप्रागभावयोराश्रयाश्रयिभाव इत्यत्र तावन्न
विवादः । तत्र प्रागभावस्याश्रयिता न प्रागभावत्वेन, गौरवात् ।
किं तु घटाभावत्वेन, लाघवात्प्रध्वंसादावनुगतत्वाच्च । तथा च
मृत्पिण्डघटात्यन्ताभावयोरप्याश्रयाश्रयिभाव आवश्यिकः ।
अपि च घटस्य प्रागभावसामानाधिकरण्यं च तदत्यन्ता-
भावसामानाधिकरण्यमुक्तमेव ; अत्यन्ताभावातिरिक्तप्राग-
भावे मानाभावात्, प्राक्कालावच्छिन्नस्यैवात्यन्ताभावस्य प्रा-
गभावत्वात् । ' इदानीं घटो नास्ति, किं तु भविष्यति' इति
प्रतीत्यापि एव विषयीक्रियत इति । तस्मादत्यन्ताभाव-
सामानाधिकरण्यं न विरुद्धम् । ततश्च युक्तं प्रपञ्चस्यानि-
र्वचनीयत्वम् । अज्ञानं निरूपयति -- अज्ञानं त्विति ।
सत्त्वे बाधो न स्यात् ; असत्त्वेऽपरोक्षत्वप्रथा न स्यात् ;
 
मृत्पिण्डघटात्यन्ताभावयोरप्याश्रयाश्रयिभाव