This page has been fully proofread twice.


पोऽध्यारोपः । वस्तु सच्चिदानन्दानन्तात्र्द्वयं

[commentary]
 
चनीयसर्पारोपवदिति । दान्तिक र्ष्टान्तिकमाह -- वस्त्विति । सदिति ।
श्रुतितो युक्तितश्च बाधांधानुपलम्भादिति भावः । 'असदेवेद-
मग्र आसीत्' इति श्रुतेश्च अनभिव्यक्तनामरूपविषयत्वात् ।
अन्यथा 'सदेव सोम्येदमग्र आसीत्' 'सत्यं ज्ञानमनन्तं
ब्रह्म' इत्यादिश्रुतित्र्व्याकोप:पः स्यात् । चिदिति । 'विज्ञान-
मानन्दं ब्रह्म' इत्यादिश्रुतेः । न च आत्मनो ज्ञानरूपत्वे
'अहं ज्ञानवान्' इति प्रत्ययः कथमिति वाच्यम्, वृत्तिवि
षयत्वेन तदुपपत्ते:तेः । आनन्देति । उक्तश्रुतेः, परमप्रेमा-
स्पदत्वाच्च, हैरण्यगर्भभोगविरक्तानामध्प्यभिलषितत्वाच्च
अद्वयमिति । 'एकमेवाद्वितीयम्' इति श्रुतेः, भेदे माना-
भावाच्च, एकस्मिञ्शरीरे- हस्तपादाद्युपाधिवशेन सुखदुःख-
वैचित्र्यवत् शरीरभेदेऽपि
सुखदुःखवैचित्र्यवत् शरीरभेदेऽपि सुखदुःखवैचित्र्यस्यौपाधिकत्वात् ।
अवस्त्विति । अनिर्वचनीयमित्यर्थः । सदसद्भिन्नत्वमनिर्वच -
नीयत्वम् । तच्च प्रपञ्चे आवाश्यवश्यिकम् । तथा हि -- प्रपञ्च-
स्तावन्नासन्, अपरोक्षप्रथानुपपत्तेः । नापि सन्, बाध्यत्वा-
नुपपत्तेः । न च तर्हेि प्रपञ्चस्य स्वात्यन्ताभावसामानाधि-
करण्यं वक्तव्यम, तच्च विरुद्धमिति वाच्यम् । तथा सति
प्रागभावसामानाधिकरण्यमपि न स्यात् । अनुभवात्तत्स्वी-