This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
6
 

पोऽध्यारोपः । वस्तु सच्चिदानन्दानन्तात्र्यं

चनीयसर्पारोपवदिति । दान्तिक माह-वस्त्विति । सदिति ।

श्रुतितो युक्तितश्च बाधांनुपलम्भादिति भावः । 'असदेवेद-

मग्र आसीत्' इति श्रुतेश्च अनभिव्यक्तनामरूपविषयत्वात् ।

अन्यथा 'सदेव सोम्येदमग्र आसीत्' 'सत्यं ज्ञानमनन्तं

ब्रह्म' इत्यादिश्रुतित्र्याकोप: स्यात् । चिदिति । 'विज्ञान-

मानन्दं ब्रह्म' इत्यादिश्रुतेः । न च आत्मनो ज्ञानरूपत्वे

अहं ज्ञानवान्' इति प्रत्ययः कथमिति वाच्यम्, वृत्तिवि

षयत्वेन तदुपपत्ते: । आनन्देति । उक्तश्रुतेः, परमप्रेमा-

स्पदत्वाच्च, हैरण्यगर्भभोगविरक्तानामध्यभिलषितत्वाच्च

अद्वयमिति । 'एकमेवाद्वितीयम्' इति श्रुतेः, भेदे माना-

भावाच्च, एकस्मिञ्शरीरे- हस्तपादाद्यपाधिवशेन सुखदुःख-

वैचित्र्यवत् शरीरभेदेऽपि सुखदुःखवैचित्र्यस्यौपाधिकत्वात् ।

अवस्त्विति । अनिर्वचनीयमित्यर्थः । सदसद्भिन्नत्वमनिर्वच -

नीयत्वम् । तच्च प्रपञ्चे आवाश्यकम् । तथा हि- प्रपञ्च-

स्तावन्नासन्, अपरोक्षप्रथानुपपत्तेः । नापि सन्, बाध्यत्वा-

नुपपत्तेः । न च तर्हेि प्रपञ्चस्य स्वात्यन्ताभावसामानाधि-

करण्यं वक्तव्यम, तच्च विरुद्धमिति वाच्यम् । तथा सति

प्रागभावसामानाधिकरण्यमपि न स्यात् । अनुभवात्तत्स्वी-

 

 
३७