This page has been fully proofread once and needs a second look.

वेदान्तसार:
 

स्मर्यमाणरजताभावस्य त्रैकालिकनिषेधप्रतीतिविषयत्वम् ।

आरोपश्च न कारणम् । भवतु वा आरोपश्च कारणम् । तथापि

नानुपपत्ति: । तस्य हि न समानप्रकारकारोपत्वेन, किं त्वारो-

पत्वेनैव, लाघवात् । पुरोवर्तिनि रजतस्य रजतत्वेन ज्ञानादारो-

पोऽस्त्येव । तस्माल्लौकिकपरमार्थदृष्टापणस्थरजताभाव एव त्रै-

कालिकनिषेधप्रतीतिविषय: । ननु शुक्तौ त्रैकालिकरजताभाव-

प्रत्ययवत् 'नेह नाना' इति शास्त्रादनिर्वचनीयसकलप्रप-

ञ्चाभावश्चैतन्येSवगम्यते; तत्र का गतिरिति चेत् ; अत एव

प्रपञ्चस्यानिर्वचनीयत्वम् । प्रपञ्चस्तु दृश्यते । श्रुतौ च त्रै-

कालिकनिषेधोऽवगम्यते । तेनानिर्वचनीयत्वम् । अनिर्वच-
'
 

नीयस्य च स्वाभावसामानाधिकरण्यं न विरुद्धम् । अतः

'
नेह नाना' इति शास्त्रादवगम्यमानश्चैतन्ये त्रैकालिकप्रप-
श्वा

ञ्चा
भावो न विरुद्धः । नन्वेवं पुरोवर्तिनि रजताभावोऽपि
प्रपश्

प्रपञ्
चाभाववत्त्रैकालिकनिषेधविषयोऽस्तु, तस्याप्यनिर्वचनी-

यत्वादिति चेत्, सत्यम् । तस्यैवाभावो निषेधविषयः संभ-

वति । विवरणाचार्यैरपि 'प्रतिपन्नोपाधौ निषिध्यमानविषयत्वं

मिथ्यात्वम्' इत्यादिग्रन्थ इदमुक्तम् । लौकिकपरमार्थदृष्टरजता-

भावविषयत्वं तु. प्रौढ्योक्तमित्यस्मद्गुरवः । तस्मान्नानिर्वचनीय-

रजताङ्गीकारे निषेधप्रतीत्यनुपपत्तिः । ततश्च युक्तमुक्तमनिर्व-