This page has been fully proofread twice.

धः, सामान्योपाधौ प्रसक्तस्य घटस्य निषेधवत्' इति । अयमाशयः -- अभावज्ञाने प्रतियोगिस्मरणं कारणम् । न तु प्रतियोग्यारोपः, तस्य कारणत्वे प्रमाणाभावात् । ननु यदि नारोपः कारणम्, तदा अत्यन्ताभावबोधसमयेऽन्योन्याभावबोधोऽपि भासेत, प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानसामग्र्यास्तुल्यत्वात् । आरोपस्य तु कारणत्वेऽत्यन्ताभावबोधसमये नान्योन्याभावभानम्, अन्योन्याभावज्ञानजनकीभूततादात्म्यारोपाभावादिति चेत्, मैवम् । तथापि तव मते संसर्गारोपसमये कथं न तादात्म्यारोपः । तज्जनकी भूतेच्छाभावादिति चेत्, कस्मात्तज्जनकीभूतेच्छाभावः ? दैववशादेवेति चेत्, 'तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेन' इति न्यायेन तस्मादेव दैववशात्कदाचिदत्यन्ताभावबोधः कदाचिदन्योन्याभावबोध इत्युपपत्तौ व्यसनितयारोपेच्छाङ्गीकरणे प्रमाणाभावात्, यथा हि तुरगादौ वेगेन गच्छतः सर्ववृक्षेन्द्रियसंनिकर्षेऽपि कदाचित्कस्यचिज्ज्ञानं कदाचित्कस्यचित् । किं च परमते घटघटत्वविषयकनिर्विकल्पकाविशेषेऽपि कदाचिद्घटविशेष्यकं घटत्वविशेषणकम्, कदाचित्तु विपरीतम् । न तु तत्रापि सामग्र्यन्तरम्, मानाभावात् ; किंतु दैवादेव । तेनैवात्राप्युपपत्तौ किमन्तर्गडुनारोपेण । तथा च रजताभासप्रसक्त्या