वेदान्तसारो बालबोधिनीसहितः /151 Edit | History ← Previous ← | Next → → 2023-10-08 08:19:16 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । धः, सामान्योपाधौ प्रसक्तस्य घटस्य निषेधवत्' इति । अयमाशयः -- अभावज्ञाने प्रतियोगिस्मरणं कारणम् । न तु प्रतियोग्यारोपः, तस्य कारणत्वे प्रमाणाभावान्त् । ननु यदि नारोप:पः कारणम्, तदा अत्यन्ताभावबोधसमयेऽन्योन्या- भावबोधोऽपि भासेत, प्रतियोगितावच्छेदकप्रकारकप्रतियो- गिज्ञानसामग्र्यास्तुल्यत्वात् । आरोपस्य तु कारणत्वेऽत्यन्ता- भावबोधसमये नान्योन्याभावभानम्, अन्योन्याभावज्ञान- जनकीभूततादात्म्यारोपाभावादिति चेत्, मैवम् । तथापि तव मते संसर्गारोपसमये कथं न तादात्म्यारोपः । तज्जनकी भूते- च्छाभावादिति चेत्, कस्मात्तज्जनकी भूतेच्छाभावादिति चेत्, कस्मात्तज्जनकीभूतेच्छाभावः ? दैववशा- देवेति चेत्, 'तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेन' इति न्या- येन तस्मादेव दैववशात्कदाचिदत्यन्ताभावबोध:धः कदाचिदन्यो- न्याभावबोध इत्युपपत्तौ व्यसनितयारोपेच्छाङ्गीकरणे प्रमाणा- भावात्, यथा हि तुरगादौ वेगेन गच्छतः सर्ववृक्षेन्द्रियसं- निकर्षेऽपि कदाचित्कस्यचिज्ज्ञानं कदाचित्कस्यचित् । किं च परमते घटघटत्वविषयक निर्विकल्पका विशेषेऽपि कदाचिद्भघट- विशेष्यकं घटत्वविशेषणकम्, कदाचित्तु विपरीतम् । न तु तत्रापि सामग्र्यन्तरम्, मानाभावात् ; किंतु दैवादेव । तेनैवा- त्राप्युपपत्तौ किमन्तर्गडुनारोपेण । तथा च रजताभासप्रसक्त्या ३५