This page has not been fully proofread.

बालबोधिनीसहितः ।
 
धः, सामान्योपाधौ प्रसक्तस्य घटस्य निषेधवत्' इति ।
अयमाशयः -- अभावज्ञाने प्रतियोगिस्मरणं कारणम् । न
तु प्रतियोग्यारोपः, तस्य कारणत्वे प्रमाणाभावान् । ननु यदि
नारोप: कारणम्, तदा अत्यन्ताभावबोधसमयेऽन्योन्या-
भावबोधोऽपि भासेत, प्रतियोगितावच्छेदकप्रकारकप्रतियो-
गिज्ञानसामग्र्यास्तुल्यत्वात् । आरोपस्य तु कारणत्वेऽत्यन्ता-
भावबोधसमये नान्योन्याभावभानम्, अन्योन्याभावज्ञान-
जनकीभूततादात्म्यारोपाभावादिति चेत्, मैवम् । तथापि तव
मते संसर्गारोपसमये कथं न तादात्म्यारोपः । तज्जनकी भूते-
च्छाभावादिति चेत्, कस्मात्तज्जनकी भूतेच्छाभावः ? दैववशा-
देवेति चेत्, 'तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेन' इति न्या-
येन तस्मादेव दैववशात्कदाचिदत्यन्ताभावबोध: कदाचिदन्यो-
न्याभावबोध इत्युपपत्तौ व्यसनितयारोपेच्छाङ्गीकरणे प्रमाणा-
भावात्, यथा हि तुरगादौ वेगेन गच्छतः सर्ववृक्षेन्द्रियसं-
निकर्षेऽपि कदाचित्कस्यचिज्ज्ञानं कदाचित्कस्यचित् । किं च
परमते घटघटत्वविषयक निर्विकल्पका विशेषेऽपि कदाचिद्भट-
विशेष्यकं घटत्वविशेषणकम्, कदाचित्तु विपरीतम् । न तु
तत्रापि सामग्र्यन्तरम्, मानाभावात् ; किंतु दैवादेव । तेनैवा-
त्राप्युपपत्तौ किमन्तर्गडुनारोपेण । तथा च रजताभासप्रसक्त्या
 
३५