This page has been fully proofread twice.

करणधर्मावच्छिन्नाभावत्वम्, अधिष्ठानसत्त्वप्रयुक्तस्य लौकिकपरमार्थत्वस्य प्रतिभासमानरजतनिष्ठत्वेन प्रतियोगितासमानाधिकरणत्वात् । प्रतियोगिताव्यधिकरणस्य च यत्र प्रतियोगितावच्छेदकत्वं स व्यधिकरणधर्मावच्छिन्नाभावः । तस्मात् 'कालत्रयेऽपि सर्पो नास्ति' इति प्रतीतेर्न व्यधिकरणधर्मावच्छिन्नाभावविषयकत्वमिति । अन्ये तु -- त्रैकालिकनिषेधस्य प्रतिभासमानरजताभाव एव विषयः । न च पुरोवर्तिनि सर्पाङ्गीकारात्कथं त्रैकालिकनिषेधप्रतीतिरिति वाच्यम्, सर्पस्यानिर्वचनीयत्वात् । अयमेव चार्थः 'लौकिकपरमार्थदृष्ट--' इत्याचार्यग्रन्थस्येति वदन्ति । अत्र च लौकिकपरमार्थेत्यादेर्न किंचित्कृत्यमिति दूषणं वेदितव्यम् । कस्तर्ह्येतद्ग्रन्थाभिप्रायेण प्रतीतिविषय इति चेत्, शृणु -- लौकिकपरमार्थदृष्टापणस्थरजताभाव एव । तस्य पुरोवर्तिन्यप्रसक्तत्वेन कथं निषेध इति चेत्, का तेऽप्रसक्तिस्तां न विद्मः । स्मरणाभाव एवेति चेत्, त्वया तदभावः कथमत्रावधारितः । नन्वारोपाभाव एवाप्रसक्तिः, पुरोवर्तिन्यापणस्थरजतस्यारोपासंभवात् ; अन्यथा अन्यथाख्यात्यापत्तेरिति चेत् ; अत्र समाधानमुक्तं तत्त्वदीपनाचार्यैः -- 'रजताभासप्रसक्त्या परमार्थरजतस्यापि बुद्धिस्थत्वादत्र निषे-