वेदान्तसारो बालबोधिनीसहितः /150 Edit | History ← Previous ← | Next → → 2023-10-06 09:54:36 by Bharadwajraki This page has been fully proofread once and needs a second look. ३४ वेदान्तसारः - तु- करणधर्मावच्छिन्नाभावत्वमम्, अधिष्ठानसत्त्वप्रयुक्तस्य लौकि- कपरमार्थत्वस्य प्रतिभासमानरजतनिष्ठत्वेन प्रतियोगितास- मानाधिकरणत्वात् । प्रतियोगिताव्यधिकरणस्य च यत्र प्र- तियोगितावच्छेदकत्वं स व्यधिकरणधर्मावच्छिन्नाभावः । त- स्मात् 'काललत्रयेऽपि सर्पोंपो नास्ति' इति प्रतीतेर्न व्यधिकरण- धर्मावच्छिन्नाभावविषयकत्वमिति । अन्ये तु -- त्रैकालिकनि- षेधस्य प्रतिभासमानरजताभाव एव विषयः । न च पुरोवर्ति- नि सर्पाङ्गीकारात्कथं त्रैकालिकनिषेधप्रतीतिरिति वाच्यम्, सर्पस्यानिर्वचनीयत्वात् । अयमेव चार्थ :थः 'लौकिकपरमार्थ- दृष्ट--' इत्याचार्यग्रन्थस्येति वदन्ति । अत्र च लौकिकपरमा- र्थेत्यादेर्न किंचित्कृत्यमिति दूषणं वेदितव्यम् । कस्त- र्ह्येतद्वग्रन्थाभिप्रायेण प्रतीतिविषय इति चेत्, शृणु -- लौकि- कपरमार्थदृष्टापणस्थरजताभाव एव । तस्य पुरोवर्तिन्यप्रस- क्तत्वेन कथं निषेध इति चेत्, का तेऽप्रसक्तिस्तां न विद्मः । स्मरणाभाव एवेति चेत्, त्वया तदभावः कथमत्रावधारितः । नन्वारोपाभाव एवाप्रसक्तिः, पुरोवर्ति- 'न्यापणस्थरजतस्यारोपासंभवात् ; अन्यथा अन्यथाख्यात्याप- त्तेरिति चेत् ; अत्र समाधानमुक्तं तत्त्वदीपनाचार्यै: यैः -- 'र- जताभासप्रसक्त्या परमार्थरजतस्यापि बुद्धिस्थत्वादत्र निषे-