This page has not been fully proofread.

३४
 
वेदान्तसारः
 
-
 
तु-
करणधर्मावच्छिन्नाभावत्वम, अधिष्ठानसत्त्वप्रयुक्तस्य लौकि-
कपरमार्थत्वस्य प्रतिभासमानरजतनिष्ठत्वेन प्रतियोगितास-
मानाधिकरणत्वात् । प्रतियोगिताव्यधिकरणस्य च यत्र प्र-
तियोगितावच्छेदकत्वं स व्यधिकरणधर्मावच्छिन्नाभावः । त-
स्मात् 'काललयेऽपि सर्पों नास्ति' इति प्रतीतेर्न व्यधिकरण-
धर्मावच्छिन्नाभावविषयकत्वमिति । अन्ये त्रैकालिकनि-
षेधस्य प्रतिभासमानरजताभाव एव विषयः । न च पुरोवर्ति-
नि सर्पाङ्गीकारात्कथं त्रैकालिकनिषेधप्रतीतिरिति वाच्यम्,
सर्पस्यानिर्वचनीयत्वात् । अयमेव चार्थ : 'लौकिकपरमार्थ-
दृष्ट-' इत्याचार्यग्रन्थस्येति वदन्ति । अत्र च लौकिकपरमा-
र्थेत्यादेर्न किंचित्कृत्यमिति दूषणं वेदितव्यम् । कस्त-
ह्येतद्वन्थाभिप्रायेण प्रतीतिविषय इति चेत्, शृणु - लौकि-
कपरमार्थदृष्टापणस्थरजताभाव एव । तस्य पुरोवर्तिन्यप्रस-
क्तत्वेन कथं निषेध इति चेत्, का तेऽप्रसक्तिस्तां न
विद्मः । स्मरणाभाव एवेति चेत्, त्वया तदभावः
कथमत्रावधारितः । नन्वारोपाभाव एवाप्रसक्तिः, पुरोवर्ति-
'न्यापणस्थरजतस्यारोपासंभवात्; अन्यथा अन्यथाख्यात्याप-
त्तेरिति चेत्; अत्र समाधानमुक्तं तत्त्वदीपनाचार्यै: - 'र-
जताभासप्रसक्त्या परमार्थरजतस्यापि बुद्धिस्थत्वादत्र निषे-