This page has been fully proofread twice.

त्वावच्छिन्नशृङ्गाभाव इति । तत्रेदं चिन्त्यम् -- न तावत्सिद्धान्ते व्यधिकरणधर्मावच्छिन्नाभावः, प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसत्त्वापेक्षया प्रतियोगिसत्त्वस्य लघुत्वेनाभावसत्वे तस्यैव विरोधित्वान्न प्रतियोगिमति तदभाव इत्यादिदूषणगणग्रस्तस्याङ्गीकरणे प्रमाणाभावात् । न च तादृशो ग्रन्थोऽस्ति, येन दूषणगणग्रस्तोऽपि स्वीकार्यः । न च परमताभिप्रायेणायं ग्रन्थ इति वाच्यम् । स्वमतेनैवोपपत्तावभिप्रायेण नयनस्य शिष्यदन्धनत्वात् । किं च 'कालत्रयेऽपि सर्पो नास्ति' इति प्रतीतिर्न व्यधिकरणधर्मावच्छिन्नाभावविषयिणी । 'यत्प्रकारकप्रतियोगिज्ञानमभावज्ञाने कारणम्,
तत्प्रकारेण प्रतियोग्यवगाहि अभावज्ञानम्' इति नियमः सर्वसिद्धः । न हि 'अत्र कालत्रयेऽपि सर्पो नास्ति' इत्यत्र लौकिकपरमार्थत्वेन सर्पो भासते, अनुभवविरोधात् । अपि च अभावज्ञाने प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानं कारणम्, अन्यथा निर्विकल्पकादप्यभावधीः स्यादिति सर्वसिद्धम् । न च प्रतिभासमानरजतविशेष्यकं लौकिकपरमार्थत्वप्रकारकं च ज्ञानं संभवति । तद्धि लौकिकपरमार्थत्वं देशान्तरीयमिह प्रकारीभूय भासते, उताधिष्ठानसत्त्वप्रयुक्तमत्रत्यमेव । नाद्यः, अन्यथाख्यात्यापत्तेः । अन्त्ये न व्यधि-