This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
त्वावच्छिन्न शृङ्गाभाव इति । तत्रेदं चिन्त्यम् -- न तावत्सिद्धा-

न्ते व्यंधिकरणधर्मावच्छिन्नाभावः, प्रतियोगितावच्छेदकाव-
च्छिन्न प्रतियोगिसत्त्वापेक्षया प्रतियोगिसत्त्वस्य लघुत्वेना-
भावसत्वे तस्यैव विरोधित्वान्न प्रतियोगिमति तद्भाव इत्या-
दिदूषणगणग्रस्तस्याङ्गीकरणे प्रमाणाभावात् । न च तादृशो
ग्रन्थोऽस्ति, येन दूषणगणग्रस्तोऽपि स्वीकार्यः । न च परमता-
भिप्रायेणायं ग्रन्थ इति वाच्यम् । स्वमतेनैवोपपत्तावभिप्रायेण
नयनस्य शिष्यदन्धनत्वात् । किं च 'कालत्रयेऽपि सर्पो
नास्ति' इति प्रतीतिर्न व्यधिकरणधर्मावच्छिन्नाभावविष-
यिणी । ' यत्प्रकारकप्रतियोगिज्ञानमभावज्ञाने कारणम्,

तत्प्रकारेण प्रतियोग्यवगाहि अभावज्ञानम्' इति नियमः सर्व-
सिद्धः । न हि 'अत्र कालत्रयेऽपि सर्पो नास्ति' इत्यत्र लौकि-
कपरमार्थत्वेन सर्पोंपो भासते, अनुभवविरोधात् । अपि च
अभावज्ञाने प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानं कार-
णम
णम्, अन्यथा निर्विकल्पकादप्यभावधी:धीः स्यादिति सर्वसि
द्धम् । न च प्रतिभासमानरजतविशेष्यकं लौकिकपरमार्थ-
त्वप्रकारकं च ज्ञानं संभवति । तद्धि लौकिकपरमार्थत्वं
देशान्तरीयमिह प्रकारीभूय भासते, उताधिष्ठानसत्त्वप्रयु-
क्तमत्रत्यमेव । नाद्यः, अन्यथाख्यात्यापत्तेः । अन्त्ये न व्यधि-
* V 3