This page has been fully proofread twice.

तथा सति संयोगादेरपि तन्न स्यात्, तदतिरिक्तस्थलेऽवच्छेदकभेदेन स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वस्यादृष्टत्वात् । तत्रादर्शनेऽपि संयोगादौ दर्शनात्स्वीक्रियत इति यदि, तदा प्रकृतेऽपि बोध्यम् । किं च पुरोवर्तिनि मिथ्यासर्प आवश्यिकः, अवच्छेदकलाघवस्य विद्यमानत्वात् । परैर्हि विषयसाधकतावच्छेदकं प्रमानुभवत्वमुच्यते । तच्चानुभवत्वापेक्षया गुरुभूतम् । अतोऽनुभव एव विषयसाधकः । स च प्रकृतेऽप्यस्तीत्यावश्यिको मिथ्यासर्पः । नन्वनिर्वचनीय सर्पाङ्गीकारे 'रज्जौ कालत्रयेऽपि सर्पो, नास्ति' इति त्रैकालिकनिषेधप्रतीत्यनुपपत्तिः, सर्पाङ्गीकारात् इति चेत्, अत्र समाधानमुक्तं विवरणाचार्यैः --'लौकिकपरमार्थदृष्टरजतप्रतियोगिकाभावविषयत्वाद्रजते त्रैकाल्याभावज्ञानस्य' इति । तथा च 'कालत्रयेऽपि सर्पो नास्ति' इति प्रतीतिः लौकिकपरमार्थदृष्टसर्पाभावविषयिणी, तस्य कदापि पुरोवर्तिन्यसत्त्वात् । ननु लौकिकपरमार्थदृष्टः सर्पः पुरोवर्तिनि प्रसक्तो न वा । आद्ये अन्यथाख्यातिः ।
अन्त्ये निषेधानुपपत्तिः, प्रसक्तस्यैव प्रतिषेध्यत्वात् । अत्र वदन्ति -- लौकिकपरमार्थत्वेन प्रतिभासमानरजताभाव एव विषयः, व्यधिकरणावच्छिन्नप्रतियोगिकाभावस्य प्रतियोग्यधिकरणेऽपि स्वीक्रियमाणत्वात्, यथा शृङ्गवत्यां गवि शशीय-