This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
तथा सति संयोगादेरपि तन्न स्यात्, तदतिरिक्तस्थलेऽवच्छे-
दक भेदेन स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वस्यादृष्टत्वात् ।
तत्रादर्शनेऽपि संयोगादौ दर्शनात्स्वीक्रियत इति यदि, तदा
प्रकृतेऽपि बोध्यम् । किं च पुरोवर्तिनि मिथ्यासर्प आवश्यिकः,
अवच्छेदकलाघवस्य विद्यमानत्वात् । परैर्हि विषयसाधकता-
वच्छेदकं प्रमानुभवत्वमुच्यते । तच्चानुभवत्वापेक्षया गुरु-
भूतम् । अतोऽनुभव एव विषयसाधकः । स च प्रकृतेऽप्यस्ती-
त्यावश्यिको मिथ्यासर्पः । नन्वनिर्वचनीय सर्पाङ्गीकारे 'रज्जौ
कालत्रयेऽपि सर्पो, नास्ति' इति नैत्रैकालिकनिषेधप्रतीत्यनुप--
पत्तिः, सर्पाङ्गीकारात् इति चेत्, अत्र समाधानमुक्तं विवरणाचार्यैः -
चार्यैः
-'लौकिकपरमार्थदृष्टरजतप्रतियोगिकाभावविषयत्वाद्र-
जते त्रैकाल्याभावज्ञानस्य' इति । तथा च 'कालत्रयेऽपि सर्पो
नास्ति' इति प्रतीति:तिः लौकिकपरमार्थदृष्टसर्पाभावविषयिणी,
तस्य कदापि पुरोवर्तिन्यसत्त्वात् । ननु लौकिकपरमार्थदृष्टः

सर्पः पुरोवर्तिनि प्रसक्तो न वा । आद्ये अन्यथाख्याति: ।
तिः ।
अन्त्ये निषेधानुपपत्तिः, प्रसक्तस्यैव प्रतिषेध्यत्वात् । अत्र
वदन्ति -- लौकिकपरमार्थत्वेन प्रतिभासमानरजताभाव एव
विषय:यः, व्यधिकरणावच्छिन्न प्रतियोगिकाभावस्य प्रतियोग्य-
धिकरणेऽपि स्वीक्रियमाणत्वात्, यथा शृङ्गवत्यां गवि शशीय-
-