This page has been fully proofread twice.

'समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादिश्रुतेः ॥
 
स परमकृपयाध्यारोपापवादन्यायेनैनमुपदिशति, 'तस्मै स विद्वानुपसन्नाय प्राह' इत्यादिश्रुतेः --
 
असर्पभूते रज्जौ सर्पारोपवद्वस्तुन्यवस्त्वारो-
 
[commentary]
 
अपवादस्याध्यारोपपूर्वकत्वात्प्रथममध्यारोपं निरूपयति -- वस्तुनीति । दृष्टान्तमाह -- असर्पेति । सर्पारोपवदिति । अनिर्वचनीयसर्पारोपवदित्यर्थः, देशान्तरीयसर्पभाने मानाभावात् । तथा हि -- सति दोषविशेषे रज्ज्वां सर्पो भासत इत्यनुभवसिद्धम् । दोषे च अपगते 'नास्ति सर्पः, मिथ्यैवाभात्' इत्यप्यनुभूयते । अत्र प्रतिपन्नस्य देशान्तरसत्त्वं न भ्रमेण वा बाधेन वा विषयीक्रियते । बाधान्यथानुपपत्त्यैव देशान्तरसत्त्वं कल्प्यत इति चेत्, तर्हि बाधान्यथानुपपत्त्या अत्र प्रतिपन्नस्यैव बाधयोग्यं सत्त्वं कल्प्यताम्, अनुभवारूढत्वात् । न तु देशान्तरसत्त्वमनुभवानारूढम् । न च बाधयोग्ये सत्त्वे कल्प्यमाने स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वमक्लृप्तं कल्पनीयमिति वाच्यम् ।