This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादि-
श्रुतेः ॥
 
परमकृपयाध्यारोपापवादन्यायेनैनमुपदि-
शति, 'तस्मै स विद्वानुपसन्नाय प्राह' इत्या
 
श्रुतेः ॥

 
दिश्रुतेः-
--
 
असर्पभूते रज्जौ सर्पारोपवद्वस्तुन्यवस्त्वारो-

 
३१
 

 
[commentary]
 
अपवादस्याध्यारोपपूर्वकत्वात्प्रथममध्यारोपं निरूपयति-
-- वस्तुनीति । दृष्टान्तमाह -- असर्पेति । सर्पारोपवदिति ।
अनिर्वचनीयसर्पारोपवदित्यर्थः, देशान्तरीयसर्पभाने माना-
भावात् । तथा हि -- सति दोषविशेषे रज्ज्वां सर्पोंपो भासत
इत्यनुभवसिद्धम् । दोषे च अपगते 'नास्ति सर्पः, मिथ्यैवा-
मा
भात्' इत्यप्यनुभूयते । अत्र प्रतिपन्नस्य देशान्तरसत्त्वं न
भ्रमेण वा बाधेन वा विषयीक्रियते । बाधान्यथानुप-
पत्त्यैव देशान्तरसत्त्वं कल्प्यत इति चेत्, तर्हि बाधा-
न्यथानुपपत्त्या अत्र प्रतिपन्नस्यैव बाधयोग्यं सत्त्वं क
ल्प्यताम्, अनुभवारूढत्वात् । न तु देशान्तरसत्त्वमनुभ-
वानारूढम् । न च बाधयोग्ये सत्त्वे कल्प्यमाने स्वाश्रय-
निष्ठात्यन्ताभावप्रतियोगित्वमक्लृप्तं कल्पनीयमिति वाच्यम् ।