This page has been fully proofread twice.

अयमधिकारी जननमरणादिसंसारानलसंतप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं ब्रह्मनिष्टं गुरुमुपसृत्य तमनुसरति,
 
[commentary]
 
रासार्थः । अयं भावः -- यद्यपि सुखदुःखाभावान्यत्वेन नाविद्यात्यन्ताभावबोधः प्रयोजनम् ; तथापि चिद्रूपाविद्यानिवृत्तिरेव प्रयोजनम्, चैतन्यस्यानन्दरूपत्वेनाभिलषितत्वात् । अभिलषितं हि प्रयोजनम्, न तु कृतिसाध्यत्वविशेषितम्, गौरवात् । तदत्र चैतन्यस्य कृतिसाध्यत्वाभावेऽप्यभिलषितत्वेन प्रयोजनत्वमस्त्येव । न च श्रवणात्प्रागपि चैतन्यरूपप्रयोजनसत्त्वेन तत्र प्रवृत्तिर्न स्यादिति वाच्यम् । प्राक्चैतन्यसत्त्वेऽप्यनवाप्तत्वभ्रमेण कण्ठगतचामीकरन्यायेन श्रवणादौ प्रवृत्त्युपपत्तेः । अनवाप्तत्वभ्रमश्चाज्ञानजन्य एव । अतः श्रवणादिजन्यतत्त्वज्ञानेनाविद्यात्यन्ताभावे बोधितेऽनवाप्तत्वभ्रमः स गच्छति । ततः शुद्धं चैतन्यमवशिष्यते । तदेव प्रयोजनम्, तस्यानन्दरूपत्वेनाभिलषितत्वात् इति दिक् । शोकं शोकोपलक्षितं संसारम् ॥
 
एवमनुबन्धचतुष्टयं निरूप्य प्रकृतमाह -- अयमिति । उपहारेति । 'रिक्तपाणिर्न पश्येत राजानं दैवतं गुरुम्' इति वचनादिति भावः । उपसृत्येति । गुरुसमीपं गत्वेत्यर्थः ।