2023-03-01 15:22:20 by ambuda-bot
This page has not been fully proofread.
३०
वेदान्तसारः
अयमधिकारी जननमरणादिसंसारानलसं-
तप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः
श्रोत्रियं ब्रह्मनिष्टं गुरुमुपसृत्य तमनुसरति,
—
रासार्थः । अयं भावः - यद्यपि सुखदुःखाभावान्यत्वेन
नाविद्यात्यन्ताभावबोधः प्रयोजनम् ; तथापि चिद्रूपाविद्यानि-
वृत्तिरेव प्रयोजनम्, चैतन्यस्यानन्दरूपत्वेनाभिलषितत्वात् ।
अभिलषितं हि प्रयोजनम्, न तु कृतिसाध्यत्वविशेषितम
गौरवात् । तदत्र चैतन्यस्य कृतिसाध्यत्वाभावेऽप्यभिलषित-
त्वेन प्रयोजनत्वमस्त्येव । न च श्रवणात्प्रागपि चैतन्यरूप-
प्रयोजनसत्त्वेन तत्र प्रवृत्तिर्न स्यादिति वाच्यम् । प्राक्चै-
तन्यसत्त्वेऽप्यनवाप्तत्वभ्रमेण कण्ठगतचामीकरन्यायेन श्रव-
नादौ प्रवृत्त्युपपत्ते: । अनवातत्वभ्रमश्चाज्ञानजन्य एव ।
अतः श्रवणादिजन्यतत्त्वज्ञानेनाविद्यात्यन्ताभावे बोधितेऽन-
वाप्तत्व भ्रमः स गच्छति । ततः शुद्धं चैतन्यमवशिष्यते ।
तदेव प्रयोजनम, तस्यानन्दरूपत्वेनाभिलषितत्वात् इति
दिक् । शोकं शोकोपलक्षितं संसारम् ॥
-
एवमनुवन्धचतुष्टयं निरूप्य प्रकृतमाह - अयमिति ।
उपहारेति । 'रिक्तपाणिर्न पश्येत राजानं दैवतं गुरुम्' इति
वचनादिति भावः । उपसृत्येति । गुरुसमीपं गत्वेत्यर्थः ।