This page has been fully proofread twice.

मुमुक्षवे' इति । विषयो जीवब्रह्मैक्यं शुद्धं चैतन्यं प्रमेयम्, तत्रैव वेदान्तानां तात्पर्यात् । संबन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः । प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दा-
 
[commentary]
 
यस्य तस्मै । अनेन च उपरतिरुक्ता । गुणा नित्यत्वादयः । सर्वदानुगताय गुरुसेवापराय । एवमधिकारिणं निरूप्य विषयं दर्शयति -- विषय इति । उच्यत इति शेषः । ऐक्यस्य भेदत्वं व्यावर्तयति -- शुद्धमिति । बोध्येति । ननु 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतिविरोधान्न चैतन्यस्य
बोध्यत्वमिति चेत्, वक्ष्यमाणोत्तरत्वात् । तदैक्येति । तच्च तदैक्यम्, तदेव प्रमेयम्, तद्गतं तद्विषयं यदज्ञानं तस्य निवृत्तिरिति विग्रहः । चिन्मात्रविषयाज्ञाननिवृत्तिः प्रयोजनमित्यर्थः । ननु नाज्ञाननिवृत्तिः सती, अद्वैतव्याघातात् । नासती, ज्ञानजन्यत्वानुपपत्तेः । न सदसती, विरोधात् । नानिर्वचनीया, अनिर्वचनीयस्यानित्यत्वनियमेन विचारप्रयोजनस्यानित्यत्वापत्तेः । न च इष्टापत्तिः, तथा सति अनित्यफलेभ्यः कर्मभ्यो विरागादत्र प्रवृत्तिर्न स्यात् । नापि पञ्चमप्रकारा