This page has not been fully proofread.

वेदान्तसार:
 
मुमुक्षवे' इति । विषयो जीवब्रह्मैक्यं शुद्धं
चैतन्यं प्रमेयम्, तत्रैव वेदान्तानां तात्पर्यात् ।
संवन्धस्तु तदैक्यप्रमेयख तत्प्रतिपादकोपनिष-
त्प्रमाणस्य च बोध्यबोधकभावः । प्रयोजनं तु
तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वखरूपानन्दा-
२८
 
-
 
-
 
यस्य तस्मै । अनेन च उपरतिरुक्ता । गुणा नित्यत्वादयः ।
सर्वदानुगताय गुरुसेवापराय । एवमधिकारिणं निरूप्य
विषयं दर्शयति – विषय इति । उच्यत इति शेषः ।
ऐक्यस्य भेदत्वं व्यावर्तयति – शुद्धमिति । बोध्येति ।
ननु 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतिविरोधान्न चैतन्यस्य
बोध्यत्वमिति चेत्, वक्ष्यमाणोत्तरत्वात् । तदैक्येति । तच्च
तदैक्यम्, तदेव प्रमेयम्, तद्गतं तद्विषयं यदज्ञानं तस्य निवृ
त्तिरिति विग्रहः । चिन्मात्र विषयाज्ञाननिवृत्ति: प्रयोजनमि-
त्यर्थः । ननु नाज्ञाननिवृत्तिः सती, अद्वैतव्याघातात् । नासती,
ज्ञानजन्यत्वानुपपत्तेः । न सदसती, विरोधात् । नानिर्वच-
नीया, अनिर्वचनीयस्यानित्यत्वनियमेन विचारप्रयोजनस्या-
नित्यत्वापत्तेः । न च इष्टापत्तिः, तथा सति अनित्यफलेभ्य:
कर्मभ्यो विरागादत्र प्रवृत्तिर्न स्यात् । नापि पञ्चमप्रकारा