2023-10-06 08:52:36 by Bharadwajraki
This page has been fully proofread twice.
जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं
[commentary]
पत्तावनेकेषु सा युक्ता । किं तु 'पश्येत्' इति प्रकृत्या विचारो लक्ष्यते । एवं च अस्मिन्वाक्ये शान्त्यादिमत्कर्तृको विचारो विधीयते । न च 'श्रोतव्यः' इति विधिना विचारस्य प्राप्तत्वात्पुनर्विधानं व्यर्थमिति वाच्यम् । शारीरकब्राह्मणे एतदतिरिक्तविचारविधायकाभावात् । यत्तु समुच्चयो विधीयत इति, तन्न । स हि यदि संन्यासविचारात्मकस्तदोभयविधाने वाक्यभेदः । तदतिरिक्ते तु मानाभावः । किं च उपरतिपदेन शान्त्यादिपदैश्च शक्त्या लक्षणया च संन्यासविचारोपस्थितावपि समुच्चयप्रतिपादकपदाभावेन कथमत्र तस्य विधानम् । समुच्चयप्रतिपादकं पदमध्याहार्यमिति चेत्, न ; अध्याहारे मानाभावात्, शान्त्यादीनामेव समुच्चयविधानोपपत्तौ श्रवणलक्षणावैयर्थ्यापाताच्च । सोमविशिष्टयागविधाने सोमस्य यागार्थत्ववद्विचारसंन्यासयोरतिरिक्तसमुच्चयस्य विधाने विचारस्य समुच्चयार्थत्वापाताच्च । तथा च ज्ञानार्थत्वं न स्यात् । तस्मात्प्रकृत्या विचारं लक्षयित्वा शान्त्यादिमत्कर्तृको विचारो विधीयत इत्येव युक्तम् । दोषा रागादयः, ते प्रहीणा