वेदान्तसारो बालबोधिनीसहितः /143 Edit | History ← Previous ← | Next → → 2023-10-06 08:49:14 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं २७ [commentary] पत्तावनेकेषु सा युक्ता । किं तु 'पश्येत्' इति प्रकृत्या विचारो लक्ष्यते । एवं च अस्मिन्वाक्ये शान्त्यादिमत्कर्तृको विचारो विधीयते । न च 'श्रोतव्यः' इति विधिना विचा- रस्य प्राप्तत्वात्पुनर्विधानं व्यर्थमिति वाच्यम् । शारीरक- ब्राह्मणे एतदतिरिक्तविचारविधायकाभावात् । यत्तु समुच्चयो विधीयत इति, तन्न । स हि यदि संन्यासविचारा- त्मकस्तदोभयविधाने वाक्यभेदः । तदतिरिक्ते तु मा- नाभावः । किं च उपरतिपदेन शान्त्यादिपदैश्च शक्त्या लक्षणया च संन्यासविचारोपस्थितावपि समुच्चयप्रतिपाद- कपदाभावेन कथमत्र - तस्य विधानम् । समुच्चयप्रतिपा- दकं पदमध्याहार्यमिति चेत्, न ; अध्याहारे मानाभा- वात्, शान्त्यादीनामेव समुच्चयविधानोपपत्तौ श्रवणलक्ष- णावैयर्थ्यापाताञ्च्च । सोमविशिष्टयागविधाने सोमस्य यागा- र्थत्ववद्विचारसंन्यासयोरतिरिक्तसमुच्चयस्य विधाने विचा- रस्य समुच्चयार्थत्वापाताच्च । तथा च ज्ञानार्थत्वं न स्यात् । तस्मात्प्रकृत्या विचारं लक्षयित्वा शान्त्यादिमत्कर्तृको वि- चारो विधीयत इत्येव युक्तम् । दोषा रागादय:यः, ते प्रहीणा