This page has not been fully proofread.

बालबोधिनीसहितः ।
 
जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं
 
२७
 
पत्तावनेकेषु सा युक्ता । किं तु 'पश्येत्' इति प्रकृत्या
विचारो लक्ष्यते । एवं च अस्मिन्वाक्ये शान्त्यादिमत्कर्तृको
विचारो विधीयते । न च 'श्रोतव्यः' इति विधिना विचा-
रस्य प्राप्तत्वात्पुनर्विधानं व्यर्थमिति वाच्यम् । शारीरक-
ब्राह्मणे एतदतिरिक्तविचारविधायकाभावात् । यत्तु समुच्चयो
विधीयत इति, तन्न । स हि यदि संन्यासविचारा-
त्मकस्तदोभयविधाने वाक्यभेदः । तदतिरिक्ते तु मा-
नाभावः । किं च उपरतिपदेन शान्त्यादिपदैश्च शक्त्या
लक्षणया च संन्यासविचारोपस्थितावपि समुच्चयप्रतिपाद-
कपदाभावेन कथमत्र - तस्य विधानम् । समुच्चयप्रतिपा-
दकं पदमध्याहार्यमिति चेत्, न; अध्याहारे मानाभा-
वात्, शान्त्यादीनामेव समुच्चयविधानोपपत्तौ श्रवणलक्ष-
णावैयर्थ्यापाताञ्च । सोमविशिष्टयागविधाने सोमस्य यागा-
र्थत्ववद्विचारसंन्यासयोरतिरिक्तसमुच्चयस्य विधाने विचा-
रस्य समुच्चयार्थत्वापाताच्च । तथा च ज्ञानार्थत्वं न स्यात् ।
तस्मात्प्रकृत्या विचारं लक्षयित्वा शान्त्यादिमत्कर्तृको वि-
चारो विधीयत इत्येव युक्तम् । दोषा रागादय:, ते प्रहीणा