This page has been fully proofread twice.

एवंभूतः प्रमाताधिकारी, 'शान्तो दान्तः' इत्यादिश्रुतेः । उक्तं च -- 'प्रशान्तचित्ताय
 
[commentary]
 
कारिविशेषणस्य संन्यासस्याभावात् । न च संन्यासस्याधिकारिविशेषणत्वे मानाभावः, विवेकादिवत्पुरुषविशेषणत्वेन सत्यादिवाक्ये श्रुतत्वात् । न च जन्मान्तरीयः संन्यासोऽस्तीति वाच्यम् । तस्यानिश्चयात्, अनिश्चितस्य च अधिकारिविशेषणत्वाभावात्, 'वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत्' इत्यादिविधिविशेषबाधाच्च, गृहस्थस्य कर्मव्यग्रतया श्रवणकर्तव्यतानुपपत्तेश्च । पुराणादौ गृहस्थस्य विचारश्रवणं तु देवादीनां त्यागादिश्रवणवन्नेयम् । तस्मात्संन्यासिन एव श्रवणेऽधिकार इति । शान्त इति । ननु किमस्मिन्वाक्ये विधीयते । न तावत् 'पश्येत्' इति प्रकृत्युपात्तं ज्ञानम्, तस्य फलत्वेन विधेयत्वाभावात् ; नापि शान्त्यादिविधानम्, वाक्यभेदप्रसङ्गादिति चेत् ; अत्र वदन्ति -- शान्त्यादीनां श्रवणेन सहाव्यभिचरितसंबन्धाच्छान्त्यादिपदैर्विचारो लक्ष्यते । उपरतिशब्दाभिधेयश्च संन्यासः । अनयोः समुच्चयोऽस्मिन्वाक्ये विधीयत इति । गुरवस्तु -- नास्मिन्वाक्ये शान्त्यादिपदैर्विचारो लक्ष्यते, अनेकेषु पदेषु लक्षणाप्रसङ्गात् । न च एकस्मिन्पदे लक्षणयोप-