This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
एवंभूतः प्रमाताधिकारी, 'शान्तो दान्तः
' इत्यादिश्रुतेः । उक्तं च – 'प्रशान्तचित्ताय

 
[commentary]
 
कारिविशेषणस्य संन्यासस्याभावात् । न च संन्यासस्या-
धिकारिविशेषणत्वे मानाभावः, विवेकादिवत्पुरुषविशेषण-
त्वेन सत्यादिवाक्ये श्रुतत्वात् । न च जन्मान्तरीयः संन्या-
सोऽस्तीति वाच्यम् । तस्यानिश्चयात्, अनिश्चितस्य च अ-
धिकारिविशेषणत्वाभावात्, 'वेदानिमं लोकममुं च परित्य-
ज्यात्मानमन्विच्छेत्' इत्यादि विधिविशेषबाधाच्च, गृहस्थस्य
कर्मव्यप्रतथाग्रतया श्रवणकर्तव्यतानुपपत्तेश्च । पुराणादौ गृहस्थस्य
विचारश्रवणं तु देवादीनां त्यागादिश्रवणवन्नेयम् । तस्मात्सं-
न्यासिन एव श्रवणेऽधिकार इति । शान्त इति । ननु
किमस्मिन्वाक्ये विधीयते । न तावत् 'पश्येत्' इति प्रकृ-
त्युपात्तं ज्ञानम्, तस्य फलत्वेन विधेयत्वाभावात् ; नापि
शान्त्यादिविधानम्, वाक्यभेदप्रसङ्गादिति चेत् ; अत्र व
दन्ति -- शान्त्यादीनां श्रवणेन सहाव्यभिचरितसंबन्धा-
च्छान्त्यादि पदैर्विचारो लक्ष्यते । उपरतिशब्दाभिधेयश्च सं-
न्यासः । अनयोः समुच्चयोऽस्मिन्वाक्ये विधीयत इति ।
गुरवस्तु -- नास्मिन्वाक्ये शान्त्यादिपदैर्विचारो लक्ष्यते, अ-
नेकेषु पदेषु लक्षणाप्रसङ्गात् । न च एकस्मिन्पदे लक्षणयोप-
Co
 

 
२६