This page has been fully proofread twice.

मस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिः, अथवा विहितानां कर्मणां विधिना परित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा ।
 
[commentary]
 
यत्वात् । तदुक्तं तातचरणैः -- 'ऐहिकपारलौकिक फलेच्छाविरोधिचेतोवृत्तिविशेषात्मको विरागः' इति । तद्व्यतिरिक्तेति । श्रवणादिव्यतिरिक्तेत्यर्थः । नन्विन्द्रियनिग्रहे तेषां विषयेभ्यो निवर्तनमर्थसिद्धमित्यस्वरसादाह -- अथवेति । संन्यास इत्यर्थः । विहितानामिति । श्रवणाद्यतिरिक्तानामिति शेषः । विधिनेति । आलस्यादिना कर्मत्यागस्य 'वीरहा वा एष देवानां योऽग्निमुद्वासयते' इत्यादिना निषिद्धत्वादिति भावः । तदनुगुणेति । गुरुशुश्रूषादावित्यर्थः ।
एवंभूत इति । एवं च गृहस्थस्य न श्रवणेऽधिकारः, अधि-