This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
मस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो
निग्रहः । दमो बाह्येन्द्रियाणां तद्व्यतिरि-
क्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां
तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिः, अथ-
वा विहितानां कर्मणां विधिना परित्यागः ।
तितिक्षा शीतोष्णादिद्वन्द्सहिष्णुता । निगृ-
हीतस्य मनसः श्रवणादौ तदनुगुणविषये च
समाधिः समाधानम् । गुरूपदिष्टवेदान्तवा-
क्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा ।

 
[commentary]
 
यत्वात् । तदुक्तं तातचरणै: णैः -- 'ऐहिकपारलौकिक फलेच्छा-
विरोधिचेतोवृत्तिविशेषात्मको विरागः' इति । तयति-
द्व्यतिरिक्तेति । श्रवणादित्र्व्यतिरिक्तेत्यर्थः । नन्विन्द्रियनिग्रहे तेषां
विषयेभ्यो निवर्तनमर्थसिद्धमित्यस्वरसादाह -- अथवेति ।
संन्यास इत्यर्थ:थः । विहितानामिति । श्रवणाद्यतिरिक्ताना-
मिति शेष:षः । विधिनेति । आलस्यादिना कर्मत्यागस्य ' वी-
रहा वा एष देवानां योऽग्निमुद्वासयते' इत्यादिना निषिद्ध-
त्वादिति भावः । तदनुगुणेति । गुरुशुश्रूषादावित्यर्थः ।

एवंभूत इति । एवं च गृहस्थस्य न श्रवणेऽधिकारः, अधि-
-
 
२५