This page has not been fully proofread.

बालबोधिनीसहितः ।
 
मस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो
निग्रहः । दमो बाह्येन्द्रियाणां तद्व्यतिरि-
क्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां
तद्व्यतिरिक्तविषयेभ्य उपरमणमुपरतिः, अथ-
वा विहितानां कर्मणां विधिना परित्यागः ।
तितिक्षा शीतोष्णादिइन्द्रसहिष्णुता । निगृ-
हीतस्य मनसः श्रवणादौ तदनुगुणविषये च
समाधिः समाधानम् । गुरूपदिष्टवेदान्तवा-
क्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा ।
यत्वात् । तदुक्तं तातचरणै: - 'ऐहिकपारलौकिक फलेच्छा-
विरोधिचेतोवृत्तिविशेषात्मको विरागः' इति । तयति-
रिक्तेति । श्रवणादित्र्यतिरिक्तेत्यर्थः । नन्विन्द्रियनिग्रहे तेषां
विषयेभ्यो निवर्तनमर्थसिद्धमित्यस्वरसादाह — अथवेति ।
संन्यास इत्यर्थ: । विहितानामिति । श्रवणाद्यतिरिक्ताना-
मिति शेष: । विधिनेति । आलस्यादिना कर्मत्यागस्य ' वी-
रहा वा एष देवानां योऽग्निमुद्वासयते' इत्यादिना निषिद्ध-
त्वादिति भावः । तदनुगुणेति । गुरुशुश्रूषादावित्यर्थः ।
एवंभूत इति । एवं च गृहस्थस्य न श्रवणेऽधिकारः, अधि-
-
 
२५