This page has been fully proofread twice.

यानित्यत्ववत् आमुष्मिकाणामप्यमृतादिविषयभोगाणामनित्यतया तेभ्यो नितरां विरक्तिरिहामुत्रार्थफलभोगविरागः । शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः । श-
 
[commentary]
 
नित्यमिदमनित्यमिति धर्मिविशेषयोर्विवेकः, धर्मिमात्रयोर्नित्यानित्ययोर्विवेकं निश्चिनोत्येव' इति । एवं च वस्तुतो विषयो यस्यैतादृशः, यदस्ति किंचिन्नित्यमित्यन्यदखिलमनित्यमिति विवेचनम्, स विवेक इति योजना मूले द्रष्टव्या । अनित्यतयेति । 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते' इत्यादिवचनादिति भावः । तेभ्यो नितरां विरक्तिरिति । तदिच्छाविरोधिचेतोवृत्तिविशेष इत्यर्थः । न तु तदिच्छाविरहः, अभावस्य विधेयत्वाभावात्, विरागस्य 'ब्राह्मणो निर्वेदमायात्' इत्यनेन विहितत्वात् । विरहश्च यदि प्रागभावात्यन्ताभावान्योन्याभावाः, तदा तेषामनादित्वेनाननुष्ठेयत्वाद्विधेयत्वाभावः । अथ ध्वंसः, तर्हि कृतकस्य प्रध्वंसोऽयत्नसिद्ध इति विरागस्य विवेकसापेक्षत्वं न स्यात् । विधिवैयर्थ्यापाताच्च । सिद्धान्ते अत्यन्ताभावातिरिक्तप्रध्वंसस्य मानाभावेनानङ्गीकाराच्च । 'प्रध्वस्तोऽद्य' इति प्रतीतेश्च घटविरुद्धकपालमालाविष-