This page has been fully proofread once and needs a second look.

२४
 
वेदान्तसारः
 
यानित्यत्ववत् आमुष्मिकाणामध्प्यमृतादिविष-
यभोगाणामनित्यतया तेभ्यो नितरां विरक्ति-
रिहामुखात्रार्थफलभोगविरागः । शमादयस्तु श
मदमोपरतितितिक्षासमाधानश्रद्धाख्याः । श-
6
 

 
[commentary]
 
नित्यमिदमनित्यमिति धर्मिविशेषयोर्विवेकः, धर्मिमात्रयोर्नि-
त्यानित्ययोर्विवेकं निश्चिनोत्येव' इति । एवं च वस्तुतो
विषयो यस्यैतादृशः, यदस्ति किंचिन्नित्यमित्यन्यदखिलमनि-
त्यमिति विवेचनम्, स विवेक इति योजना मूले द्रष्टव्या ।
अनित्यतयेति । 'तद्यथेह कर्मचितो लोक:कः क्षीयत एवमे-
वामुत्र पुण्यचितो लोकः श्रीक्षीयते' इत्यादिवचनादिति
भावः । तेभ्यो नितरां विरक्तिरिति । तदिच्छाविरोधि-
चेतोवृत्तिविशेष इत्यर्थः । न तु तदिच्छाविरहः, अभावस्य
विधेयत्वाभावात्, विरागस्य 'ब्राह्मणो निर्वेदमायात् '
इत्यनेन विहितत्वात् । विरहश्च यदि प्रागभावात्यन्ताभावा-
न्योन्याभावाः, तदा तेषामनादित्वेनाननुष्ठेयत्वाद्विधेयत्वा-
भावः । अथ ध्वंसः, तर्हि कृतकस्य प्रध्वंसोऽयत्नसिद्ध इति
विरागस्य विवेकसापेक्षत्वं न स्यात् । विधिवैयर्थ्यापाताञ्च्च ।
सिद्धान्ते अत्यन्ताभावातिरिक्तप्रध्वंसस्य मानाभावेनानङ्गीका-
राच्च । 'प्रध्वस्तोऽद्य' इति प्रतीतेश्च घटविरुद्धकपालमालाविष-