2023-10-05 09:09:32 by Bharadwajraki
This page has been fully proofread twice.
विद्यया देवलोकः' इत्यादिश्रुतेः । साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगविरागशमादिषट्कसंपत्तिमुमुक्षुत्वानि । नित्यानित्यवस्तुविवेकस्ताद्ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । ऐहिकानां स्रक्चन्दनवनितादिविषयभोगाणां कर्मजन्यत-
[commentary]
धनानीति । अत्र विवेकादीनां क्रमो हेतुहेतुमद्भावेन द्रष्टव्यः । ब्रह्मैवेति । ननु ब्रह्मैव नित्यमन्यदखिलमनित्यमिति विवेचनं निश्चयः संशयो वा । नाद्यः, विवेककाल एव ब्रह्मणो ज्ञातत्वात्, श्रवणादिवैयर्थ्यापातात् । नान्त्यः, तथा सति विवेकस्य वैराग्यहेतुत्वं न स्यात् । न हि संदेहमात्रेणैहिकपारलौकिकार्थविरागः संभवति । एतेनापातज्ञानमेतदिति निरस्तम्, आपातज्ञानेन विरागासंभवादिति चेत्, सत्यम् । इदं सर्वमनित्यं कृतकत्वादिहेतुभ्यः, एतस्याधिष्ठानं किंचिन्नित्यं निरधिष्ठानस्यानित्यस्यासंभवात्, इत्यालोचनात्मकप्रत्ययविशेषस्य विवेकत्वेन विवक्षितत्वात् ।
एतत्प्रत्ययात्मकविवेकानन्तरं कृतकेभ्य ऐहिकामुष्मिकेभ्यो विरागः संभवत्येव । तदुक्तं वाचस्पतिमिश्रैः -- 'मा भूदिदं