2023-10-05 09:03:48 by Bharadwajraki
This page has been fully proofread twice.
तृलोकसत्यलोकप्राप्तिः, 'कर्मणा पितृलोको
[commentary]
वेदनं तु प्रतिबन्धकाभावोपलक्षितज्ञानसामान्यसामग्र्यैव जन्यत इति न स्वतस्त्वव्याघात इति सांप्रदायिकाः । ततश्च युक्तं वेदनोद्देशेन कर्मणामनुष्ठानम् । नन्वेकोद्देशेनानेकविधाने वाक्यभेदान्न वेदनोद्देशेन यज्ञाद्यनेकं विधातुं शक्यमिति चेत्, तर्हि विविदिषोद्देशेनापि तद्विधानं न स्याद्दोषस्य समत्वात् । तथापि कः प्रतीकार इति चेत्, शृणु -- अत्र यज्ञादिपदैः विहितं कर्मसामान्यं लक्ष्यते 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्र जातपुत्रकृष्णकेशपदाभ्यामिवावस्थाविशेषः । तच्च कर्मसामान्यं वेदनोद्देशेन विधीयत इति न वाक्यभेद इत्यस्मद्गुरवः । तस्माद्युक्तमुक्तं वेदनोद्देशेन यज्ञादीनि विधीयन्त इति । कर्मणेति । ननु नित्यविधिषु फलाश्रवणात् हिरण्यधारणन्यायेन एतदर्थवादसिद्धा पितृलोकप्राप्तिर्मुख्यमेव फलं किं न स्यादिति चेत्, न, पितृलोकप्राप्तेः सर्वदा सर्वेषामनभीप्सितत्वेन कदाचिदननुष्ठानप्रसङ्गात् । पापक्षयस्तु सर्वदा आस्तिकानामभीप्सित इति तस्य युक्तं फलत्वम् । हिरण्यधारणं तु न नित्यमिति युक्तं तस्यार्थवादिकी भ्रातृव्यदुर्वर्णता फलम् । तस्मात्पितृलोकप्राप्तिरानुषङ्गिकी । साधनचतुष्टयेत्येतद्व्याचष्टे -- सा