This page has been fully proofread once and needs a second look.

२२
 
वेदान्तसारः
 
तृलोकसत्यलोकप्राप्तिः, 'कर्मणा पितृलोको
 

 
[commentary]
 
वेदनं तु प्रतिबन्धकाभावोपलक्षितज्ञानसामान्यसामग्र्यैव
जन्यत इति न स्वतस्त्वव्याघात इति सांप्रदायिकाः । त-
तश्च युक्तं वेदनोद्देशेन कर्मणामनुष्ठानम् । नन्वेकोद्देशेनाने-
कविधाने वाक्यभेदान्न वेदनोद्देशेन यज्ञाद्यनेकं विधातुं
शक्यमिति चेत्, तर्हि विविदिषोद्देशेनापि तद्विधानं न
स्याद्दोषस्य समत्वात् । तथापि कः प्रतीकार इति चेत्,
शृणु -- अत्र यज्ञादिपदैः विहितं कर्मसामान्यं लक्ष्यते 'जात-
पुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यत्र जातपुत्रकृष्णकेशप-
दाभ्यामिवावस्थाविशेष:षः । तच्च कर्मसामान्यं वेदनोद्देशेन
विधीयत इति न वाक्यभेद इत्यस्मद्गुरवः । तस्माद्युक्तमुक्तं
वेदनोद्देशेन यज्ञादीनि विधीयन्त इति । कर्मणेति । ननु नि-
त्यविधिषु फलाश्रवणात् हिरण्यधारणन्यायेन एतदर्थवादसि-
द्धा पितृलोकप्राप्तिर्मुख्यमेव फलं किं न स्यादिति चेत्, न,
पितृलोकप्राप्तेः सर्वदा सर्वेषामनभीप्सितत्वेन कदाचिद-
ननुष्ठानप्रसङ्गात् । पापक्षयस्तु सर्वदा आस्तिकानामभीप्सित
इति तस्य युक्तं फलत्वम् । हिरण्यधारणं तु न नित्यमिति
युक्तं तस्यार्थवादिकी भ्रातृव्यदुर्वर्णता फलम् । तस्मात्पितृ-
लोकप्राप्तिरानुषङ्गिकी । साधनचतुष्टयेत्येतद्व्याचष्टे -- सा