This page has been fully proofread twice.

न्यत्वेन स्वतस्त्वव्याघात इष्ट एवेति वाच्यम्, गुणजन्यत्वे मानाभावात् । न च प्रमायाः सामान्यसामग्रीजन्यत्वे भ्रमत्वापत्तिरिति वाच्यम्, दोषाभावेन तदनुपपत्तेः । भ्रमस्य दोषजन्यत्वं ह्युभयवादिसिद्धम्, तदभावे सति सामान्यसामग्र्यैव प्रमोत्पत्तिसंभवेऽतिरिक्तगुणजन्यत्वे गौरवात् । गुणस्तु नोभयवादिसिद्धः । न च दोषाभावे सति सत्यां च ज्ञानसामान्यसामग्र्यां गुणाभावेन कार्याभावो दृश्यते । न च दोषाभाव एव गुण इति वाच्यम्, तदतिरिक्तगुणाङ्गीकारात् । तस्य गुणत्वे वा न स्वतस्त्वव्याघातः, दोषाभावस्य तुच्छत्वेन सिद्धान्ते तस्य कारणत्वाभावात् । तदुपलक्षितायाः सामान्य सामग्र्या भावरूपाया एव प्रमोत्पादकत्वाभ्युपगमात् । तस्मात्प्रमाया ज्ञानसामान्यसामग्रीमात्रप्रयोज्यत्वात्स्वतस्त्वमस्त्येव । तच्च यज्ञादिजन्यत्वे विरुद्धमिति । मैवम् । न हि स्वतस्त्वाङ्गीकारः क्रतुधर्मायातः, किं तु ज्ञानसामान्यसामग्र्यतिरिक्तगुणजन्यत्वे मानाभावायातः । यज्ञादिजन्यत्वं च वचनसिद्धमिति तदङ्गीक्रियत एव । एवं च ज्ञानसामान्यसामग्री वचनसिद्धयज्ञादि, तद्तिरिक्ताजन्यत्वमेव स्वतस्त्वम् । वस्तुतस्तु यज्ञादीनां वेदनप्रतिबन्धनिवृत्तौ हेतुत्वं श्रवणादीनामिवासंभावनादिनिवृत्तौ ।