वेदान्तसारो बालबोधिनीसहितः /137 Edit | History ← Previous ← | Next → → 2023-10-05 08:54:02 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । न्यत्वेन स्वतस्त्वव्याघात इष्ट एवेति वाच्यम्, गुणजन्यत्वे मानाभावात् । न च प्रमाया:याः सामान्यसामग्रीजन्यत्वे भ्रम- त्वापत्तिरिति वाच्यम्, दोषाभावेन तदनुपपत्तेः । भ्रमस्य दोषजन्यत्वं ह्युभयवादिसिद्धम्, तदभावे सति सामान्यसाम- ग्र्यैव प्रमोत्पत्तिसंभवेऽतिरिक्तगुणजन्यत्वे गौरवात् । गुणस्तु नोभयवादिसिद्धः । न च दोषाभावे सति सत्यां च ज्ञान- सामान्यसामग्र्यां गुणाभावेन कार्याभावो दृश्यते । न च दोषाभाव एव गुण इति वाच्यम्, तदतिरिक्तगुणा- ङ्गीकारात् । तस्य गुणत्वे वा न स्वतस्त्वव्याघात:तः, दोषा- भावस्य तुच्छत्वेन सिद्धान्ते तस्य कारणत्वाभावात् । तदु- पलक्षिताया:याः सामान्य सामग्र्या भावरूपाया एव प्रमोत्पा- दकत्वाभ्युपगमात् । तस्मात्प्रमाया ज्ञानसामान्यसामग्री- मात्रप्रयोज्यत्वात्स्वतस्त्वमस्त्येव । तच्च यज्ञादिजन्यत्वे विरु- द्धमिति । मैवम् । न हि स्वतस्त्वाङ्गीकारः ऋक्रतुधर्मायातः, किं तु ज्ञानसामान्यसामग्र्यतिरिक्तगुणजन्यत्वे मानाभावा- यातः । यज्ञादिजन्यत्वं च वचनसिद्धमिति तदङ्गीक्रियत एव । एवं च ज्ञानसामान्यसामग्री वचनसिद्धयज्ञादि, तद्- तिरिक्ताजन्यत्वमेव स्वतस्त्वम् । वस्तुतस्तु यज्ञादीनां वेदन- प्रतिबन्धनिवृत्तौ हेतुत्वं श्रवणादीनामिवासंभावनादिनिवृत्तौ । , २१