2023-03-01 15:22:18 by ambuda-bot
This page has not been fully proofread.
बालबोधिनीसहितः ।
न्यत्वेन स्वतस्त्वव्याघात इष्ट एवेति वाच्यम्, गुणजन्यत्वे
मानाभावात् । न च प्रमाया: सामान्यसामग्रीजन्यत्वे भ्रम-
त्वापत्तिरिति वाच्यम्, दोषाभावेन तदनुपपत्तेः । भ्रमस्य
दोषजन्यत्वं ह्युभयवादिसिद्धम्, तदभावे सति सामान्यसाम-
ग्र्यैव प्रमोत्पत्तिसंभवेऽतिरिक्तगुणजन्यत्वे गौरवात् । गुणस्तु
नोभयवादिसिद्धः । न च दोषाभावे सति सत्यां च ज्ञान-
सामान्यसामग्र्यां गुणाभावेन कार्याभावो दृश्यते । न च
दोषाभाव एव गुण इति वाच्यम्, तदतिरिक्तगुणा-
ङ्गीकारात् । तस्य गुणत्वे वा न स्वतस्त्वव्याघात:, दोषा-
भावस्य तुच्छत्वेन सिद्धान्ते तस्य कारणत्वाभावात् । तदु-
पलक्षिताया: सामान्य सामग्र्या भावरूपाया एव प्रमोत्पा-
दकत्वाभ्युपगमात् । तस्मात्प्रमाया ज्ञानसामान्यसामग्री-
मात्रप्रयोज्यत्वात्स्वतस्त्वमस्त्येव । तच्च यज्ञादिजन्यत्वे विरु-
द्धमिति । मैवम् । न हि स्वतस्त्वाङ्गीकारः ऋतुधर्मायातः,
किं तु ज्ञानसामान्यसामग्र्यतिरिक्तगुणजन्यत्वे मानाभावा-
यातः । यज्ञादिजन्यत्वं च वचनसिद्धमिति तदङ्गीक्रियत
एव । एवं च ज्ञानसामान्यसामग्री वचनसिद्धयज्ञादि, तद्-
तिरिक्ताजन्यत्वमेव स्वतस्त्वम् । वस्तुतस्तु यज्ञादीनां वेदन-
प्रतिबन्धनिवृत्तौ हेतुत्वं श्रवणादीनामिवासंभावनादिनिवृत्तौ ।
,
२१