This page has been fully proofread twice.

त्यनैमित्तिकयोरुपासनानां चावान्तरफलं पि-
 
[commentary]
 
चित्तैकाग्र्यस्य जननात् । यत्तु मुख्यमिति शेष इति, तन्न । देवलोकाद्यर्थत्वेन विहिते कर्मणि द्वारीभूतस्य चित्तैकाग्र्यस्य मुख्यत्वाभावात् । यद्धि यदुद्देशेन विहितम्, तत्तस्य मुख्यं फलम् । अन्यथा स्वर्गाद्युद्देशेन विहितस्य यागादेरपूर्वेण मुख्यफलत्वापत्तेः । न च चित्तैकाग्र्योदेशेनोपासनानि विहितानि सन्ति, येन तस्य मुख्यत्वं स्यात् । तस्मादुपासनानां
चित्तैकाग्र्यं न मुख्यं फलम्, किं त्वनुगतम् । देवलोकादिप्राप्तिश्च मुख्या । एवं च नित्यनैमित्तिकयोरुपासनानां च अवान्तरफलमित्यत्र मुख्यफलमित्यपि द्रष्टव्यम् । 'विविदिषन्ति'
इत्यत्र वेदनोद्देशेन यज्ञादीनि विधीयन्ते, वेदनस्येच्छासंबन्धित्वेन प्रतीयमानत्वात् । यथा 'अश्वेन जिगमिषति' इत्यत्राश्वस्येच्छाविषयीभूतगमनार्थत्वम्, न तु जिगमिषार्थत्वम् । अत एव 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति सूत्रेऽश्वदृष्टान्तः । विविदिषोद्देशेन च यज्ञादिविधाने विविदिषायाः कामसंबन्धकल्पनापत्तेश्च । ततश्च वेदनार्थत्वमेव यज्ञादीनाम् । ननु न वेदनार्थत्वं यज्ञादीनाम्, तथा सति ज्ञानसामान्यसामग्र्यतिरिक्तयज्ञादिसाध्यत्वे वेदनस्य स्वतस्त्वव्याघातः । न च प्रमायाः सामान्यसामग्र्यतिरिक्तगुणज-