This page has not been fully proofread.

२०
 
वेदान्तसारः
 
त्यनैमित्तिकयोरुपासनानां चावान्तरफलं पि-

 
चित्तैकाग्र्यस्य जननात् । यत्तु मुख्यमिति शेष इति, तन्न ।
देवलोकाद्यर्थत्वेन विहिते कर्मणि द्वारीभूतम्य चित्तैकाग्र्यस्य
मुख्यत्वाभावात् । यद्धि यदुद्देशेन विहितम्, तत्तस्य मुख्यं
फलम् । अन्यथा स्वर्गादेशेन विहितस्य यागादेरपूर्वेण
मुख्यफलत्वापत्तेः । न च चित्तैकाग्र्योदेशेनोपासनानि वि-
हितानि सन्ति, येन तस्य मुख्यत्वं स्यात् । तस्मादुपासनानां
चित्तैकाग्र्यं न मुख्यं फलम किं त्वनुगतम् । देवलोकादिप्रा-
प्तिश्च मुख्या । एवं च नित्यनैमित्तिकयोरुपासनानां च अवा-
न्तरफलमित्यत्र मुख्यफलमित्यपि द्रष्टव्यम् । 'विविदिषन्ति
इत्यत्र वेदनोद्देशेन यज्ञादीनि विधीयन्ते, वेदनस्येच्छासंब-
न्धित्वेन प्रतीयमानत्वात् । यथा 'अश्वेन जिगमिषति
इत्यत्राश्वस्येच्छाविषयीभूतगमनार्थत्वम्, न तु जिगमिषार्थ-
त्वम् । अत एव 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति सूत्रे-
ऽश्वदृष्टान्तः । विविदिषोद्देशेन च यज्ञादिविधाने विविदि-
षाया: कामसंबन्धकल्पनापत्तेश्च । ततश्च वेदनार्थत्वमेव
यज्ञादीनाम् । ननु न वेदनार्थत्वं यज्ञादीनाम, तथा सति
ज्ञानसामान्यसामग्र्यतिरिक्तयज्ञादिसाध्यत्वे वेदनस्य स्वत-
स्त्वव्याघातः । न च प्रमाया: सामान्यसामग्र्यतिरिक्तगुणज-
,
 
,