This page has been fully proofread twice.

वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इत्यादिश्रुतेः, 'तपसा कल्मषं हन्ति' इत्यादिस्मृतेश्च । उपासनानां तु चित्तैकाग्र्यम् । नि-
 
[commentary]
 
नित्यादिषु चित्तशुद्धेरावश्यिकत्वमिति चेत्, शृणु -- नित्यादीनां हि प्रकारत्रयेणानुष्ठानम् । एकं वेदनोद्देशेन, अन्यत्संस्कारार्थत्वेन, अपरमीश्वरार्पणबुद्ध्या । तत्र तावत्खादिरतावत्तत्तत्फलार्थं विहितानामपि यज्ञादीनां संयोगपृथक्त्वन्यायेन वेदनोद्देशेन विहितत्वादनुष्ठानम् । तदा त्वावश्यिकी पापक्षयरूपा चित्तशुद्धिः, यावत्पापं वेदनानुपपत्तेः, तस्या यज्ञादिभिर्वेदनजनने द्वारत्वात् । एवं च वेदनोद्देशेन यज्ञाद्यनुष्ठानेऽप्यवश्यं चित्तशुद्धिर्भवतीत्येतदभिप्रेत्याह -- विविदिषन्तीति । यदापि न वेदनोद्देशेनानुष्ठानं किं तु नित्यत्वात्, तदा त्वावश्यिकः पापक्षयः, नित्यविधीनां भाव्यान्तराभावाच्छ्रुतत्वाच्च इत्यभिप्रेत्याह -- तपसेति । यदापि 'यत्करोषि' इत्यादिवचनात् ईश्वरार्पणबुद्ध्या कर्मानुष्ठानम्, तदा त्वीश्वरप्रसादः फलम् । स च नाशुद्धचित्तानामिति चित्तशुद्धिरावश्यिकी । एतदभिप्रेत्य चकारप्रयोगः । तदेवं सुष्टूक्तं नित्यादिषु चित्तशुद्धेरावश्यिकत्वम् । उपासनानामिति । अनुगतमिति शेषः । तत्तत्फलार्थं विहितेनोपासनामात्रेण