वेदान्तसारो बालबोधिनीसहितः /135 Edit | History ← Previous ← | Next → → 2023-10-05 08:39:01 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इत्यादिश्रुतेः, 'तपसा कल्मषं हन्ति' इत्यादि- स्मृतेश्च । उपासनानां तु चित्तैकाग्र्यम् । नि- [commentary] नित्यादिषु चित्तशुद्धेरावश्यिकत्वमिति चेत्, शृणु -- नित्या- दीनां हि प्रकारत्रयेणानुष्ठानम् । एकं वेदनोद्देशेन, अन्यत्मं- संस्कारार्थत्वेन, अपरमीश्वरार्पणबुद्धध्या । तत्र तावत्खादिरताव- त्तत्तत्फलार्थथं विहितानामपि यज्ञादीनां संयोगपृथक्त्वन्यायेन वेदनोद्देशेन विहितत्वादनुष्ठानम् । तदा त्वावश्यिकी पापक्ष- यरूपा चित्तशुद्धिः, यावत्पापं वेदनानुपपत्तेः, तस्या यज्ञादि- भिर्वेदनजननने द्वारत्वात् । एवं च वेदनोद्देशेन यज्ञाद्यनुष्ठा- नेऽप्यवश्यं चित्तशुद्धिर्भवतीत्येतदभिप्रेत्याह -- विविदिष- न्तीति । यदापि न वेदनोद्देशेनानुष्ठानं किं तु नित्यत्वात्, तदा त्वावश्यिकः पापक्षयः, नित्यविधीनां भाव्यान्तराभा- वाच्छ्रतत्वारुतत्वाच्च इत्यभिप्रेत्याह -- तपसेति । यदापि 'यत्करोषि ' इत्यादिवचनात् ईश्वरार्पणबुद्ध्या कर्मानुष्ठानम्, तदा त्वीश्व- रप्रसादः फलम् । स च नाशुद्धचित्तानामिति चित्तशुद्धि- रावश्यिकी । एतदभिप्रेत्य चकारप्रयोगः । तदेवं सुष्टूक्तं नित्यादिषु चित्तशुद्धेरावश्यिकत्वम् । उपासनानामिति । अनुगतमिति शेषः । तत्तत्फलार्थथं विहितेनोपासनामात्रेण -