This page has not been fully proofread.

बालबोधिनीसहितः ।
 
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन'
इत्यादिश्रुतेः, 'तपसा कल्मषं हन्ति' इत्यादि-
स्मृतेश्च । उपासनानां तु चित्तैकाग्र्यम् । नि-
नित्यादिषु चित्तशुद्धेरावश्यिकत्वमिति चेत्, शृणु - नित्या-
दीनां हि प्रकारत्रयेणानुष्ठानम्। एकं वेदनोद्देशेन, अन्यत्मं-
स्कारार्थत्वेन, अपरमीश्वरार्पणबुद्धया । तत्र तावत्खादिरताव-
त्तत्तत्फलार्थ विहितानामपि यज्ञादीनां संयोगपृथक्त्वन्यायेन
वेदनोद्देशेन विहितत्वादनुष्ठानम् । तदा त्वावश्यिकी पापक्ष-
यरूपा चित्तशुद्धिः, यावत्पापं वेदनानुपपत्तेः, तस्या यज्ञादि-
भिर्वेदनजनन द्वारत्वात् । एवं च वेदनोद्देशेन यज्ञाद्यनुष्ठा-
नेऽप्यवश्यं चित्तशुद्धिर्भवतीत्येतदभिप्रेत्याह - विविदिष-
न्तीति । यदापि न वेदनोद्देशेनानुष्ठानं किं तु नित्यत्वात्,
तदा त्वावश्यिकः पापक्षयः, नित्यविधीनां भाव्यान्तराभा-
वाच्छ्रतत्वाच इत्यभिप्रेत्याह - तपसेति । यदापि 'यत्करोषि '
इत्यादिवचनात् ईश्वरार्पणबुद्ध्या कर्मानुष्ठानम्, तदा त्वीश्व-
रप्रसादः फलम् । स च नाशुद्धचित्तानामिति चित्तशुद्धि-
रावश्यिकी । एतदभिप्रेत्य चकारप्रयोगः । तदेवं सुष्टूक्तं
नित्यादिषु चित्तशुद्धेरावश्यिकत्वम् । उपासनानामिति ।
अनुगतमिति शेषः । तत्तत्फलार्थ विहितेनोपासनामात्रेण
 
-