This page has been fully proofread once and needs a second look.

१८
 
वेदान्तसार:
 

नानि सगुणब्रह्मविषयमानसव्यापाररूपाणि

शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां

बुद्धिशुद्धिः परमं प्रयोजनम्, 'तमेतमात्मानं
 

 
श्चित्तप्रारब्धविषयम् । अकृतप्रायश्चित्तस्यापि संचितक-

र्मणो ज्ञानेन नाशात्, 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कु-

रुतेऽर्जुन' इत्युक्तेरिति द्रष्टव्यम् । सगुणेति । निर्गुणवि-

षयनिदिध्यासनं तत्त्वज्ञानायैवोपयुज्यत इति भावः । एत-

चोपलक्षणम्, सगुणब्रह्मातिरिक्तविषयकाणामप्युपासनानां

दर्शनात् । मानसव्यापारेति । मानसक्रिया रूपाणीत्यर्थः

न तु ज्ञानरूपाणीत्यर्थः, उपासनानां ज्ञानत्वे विधेयत्वानुप-

पत्ते:, प्रमाणवस्तुपरतन्त्रस्य ज्ञानस्य सिद्धान्ते विधेयत्वा-

भावात । तदुक्तं टीकायाम – 'इच्छातोऽनुष्ठेयत्वान्मानसी

क्रियैषा न ज्ञानम्' इति । अत एव 'द्रष्टव्यः' इति दर्शन-

मनूद्येत्युक्तं विवरणे । शाण्डिल्यऋषिणोक्ता शाण्डिल्य-

विद्या । आदिशब्देन दहरादिविद्या ग्राह्या । एवं नित्यादीनां
 
-
 

स्वरूपमुक्त्वा निर्गतनिखिलकल्मषतयेत्येतद्वथा चष्टे – एतेषा

मिति । परममिति । आवाश्यकमित्यर्थः । न तु मुख्यमि-

त्यर्थः, 'विविदिषन्ति' इति श्रुत्युपन्यासानुपपत्तेः । तत्र हि

विविदिषादेरेव मुख्यत्वात्, चित्तशुद्धेस्तु द्वारत्वात् । कथं