This page has been fully proofread twice.


पापक्षयसाधनानि चान्द्रायणादीनि । उपास-
 
[commentary]

विशेषः । तस्माद्दुःखप्रागभावपरिपालनमेव फलम् । पापक्ष-
यस्तु द्वारमिति, तन्न । तथा सति अहिकण्टकादिपरिहारे प्रवृ-
त्तिर्न स्यात् । यदि च अहिकण्टकादेर्दु: दुःखहेतुत्वेन द्वेष्यतया
तन्निवृत्तौ प्रवृत्तिः, तदा पापस्यापि तद्धेतुत्वात्तन्निवृत्त्यर्थं
प्रायश्चित्ते प्रवृत्तिर्युक्तैव । अन्यथा सुखसाधनेऽपि प्रवृत्तिर्न
स्यान्
स्यात् । यदि सुखसाधनेऽपि रागात्प्रवृत्तिः, तर्हि दुःखवत्त-
त्साधनेऽपि द्वेषात् तन्निवृत्त्यर्थं प्रायश्चित्तेऽपि प्रवृत्तिर्युक्तैव ।
न च नित्यादिना प्रायश्चित्तस्याभेदः । अनिमित्ते विहितं
नित्यम्, यथा 'अहरह:हः संध्यामुपासीत' इत्यनेन संध्या-
वन्दनम् । नैमित्तिकं च नियतनिमित्ते विहितमपि पाप-
व्यतिरिक्ते निमित्ते विहितम्, यथा पुत्रजन्मादिनिमित्तं
जातेष्ट्यादि । प्रायश्चित्तं तु पापे निमित्ते विहितम्, यथा
' परस्त्रीकामः प्रायश्चित्तं कुर्यात्' इत्यादि । एवं च नैतेषा-
मभेद:दः । यत्तु दुःखप्रागभावपरिपालनं फलमिति, तन्न ।
तथा सति प्रायश्चित्तानन्तरं दुःखोत्पत्तिप्रसङ्गात्, प्राग-
भाववत:तः कार्यस्योत्पत्तिनियमात्, विजातीयप्रागभावकल्पने
मानाभावात् । तस्माद्युक्तमुक्तं प्रायश्चित्तानां पापक्षयसाध-
नत्वम् । यच्च 'नाभुक्तं क्षीयते कर्म' इति तदकृतप्राय-