This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 

पापक्षयसाधनानि चान्द्रायणादीनि । उपास-

विशेषः । तस्माद्दुःखप्रागभावपरिपालनमेव फलम् । पापक्ष-

यस्तु द्वारमिति, तन्न । तथा सति अहिकण्टकादिपरिहारे प्रवृ-

त्तिर्न स्यात् । यदि च अहिकण्टकादेर्दु: खहेतुत्वेन द्वेष्यतया

तन्निवृत्तौ प्रवृत्तिः, तदा पापस्यापि तद्धेतुत्वात्तन्निवृत्त्यर्थं

प्रायश्चित्ते प्रवृत्तिर्युक्तैव । अन्यथा सुखसाधनेऽपि प्रवृत्तिर्न

स्यान् । यदि सुखसाधनेऽपि रागात्प्रवृत्तिः, तर्हि दुःखवत्त-

त्साधनेऽपि द्वेषात् तन्निवृत्त्यर्थं प्रायश्चित्तेऽपि प्रवृत्तिर्युक्तैव ।

न च नित्यादिना प्रायश्चित्तस्याभेदः । अनिमित्ते विहितं

नित्यम्, यथा 'अहरह: संध्यामुपासीत' इत्यनेन संध्या-

वन्दनम् । नैमित्तिकं च नियतनिमित्ते विहितमपि पाप-

व्यतिरिक्ते निमित्ते विहितम्, यथा पुत्रजन्मादिनिमित्तं

जातेष्टयादि । प्रायश्चित्तं तु पापे निमित्ते विहितम्, यथा

' परस्त्रीकामः प्रायश्चित्तं कुर्यात्' इत्यादि । एवं च नैतेषा-

मभेद: । यत्तु दुःखप्रागभावपरिपालनं फलमिति, तन्न ।

तथा सति प्रायश्चित्तानन्तरं दुःखोत्पत्तिप्रसङ्गात् प्राग-

भाववत: कार्यस्योत्पत्तिनियमात्, विजातीयप्रागभावकल्पने

मानाभावात् । तस्माद्युक्तमुक्तं प्रायश्चित्तानां पापक्षयसाध-

नत्वम् । यच्च 'नाभुक्तं क्षीयते कर्म' इति तदकृतप्राय-
-
 
* V 2
 
,