This page has been fully proofread twice.

संध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि
 
[commentary]
 
पकत्वं न नित्यानामिति वाच्यम्, विशिष्टस्य ज्ञापकत्वे विशेषणस्यापि ज्ञापकत्वात् । अथवा यद्यपि नित्यानामकरणस्य वा न प्रत्यवायहेतुत्वम्, तथापि नित्यकालेऽनुष्ठितक्रियाया एव स्वतन्त्रप्रत्यवायहेतुत्वम्, 'अकुर्वन्' इति शतृप्रत्ययस्य 'विहितस्याननुष्ठानात्' इति पञ्चम्याश्चाकरणस्य नियतपूर्ववृत्तित्वमात्रे तात्पर्यात्, यथा 'तत्त्वज्ञानान्निःश्रेयसाधिगमः' इति न्यायसूत्रे पञ्चम्याः । मूलेऽपि नित्यान्यकरणे प्रत्यवायसाधनानीत्यनेन नित्याकरणस्य प्रत्यवायनियतपूर्ववृत्तित्वमेवोच्यत इति सर्वमवदातम् । नैमित्तिकानीति । एतदकरणस्यापि प्रत्यवायज्ञापकत्वं तन्नियतपूर्ववृत्तित्वं वा द्रष्टव्यम् । पुत्रेति । 'वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते' इति श्रुतेरित्यर्थः । प्रायश्चित्तानीति । अत्र वदन्ति -- न प्रायश्चित्तानां पापक्षयः फलम्, अपुरुषार्थत्वात् । पुरुषार्थो हि सुखं दुःखाभावो वा । न च पापक्षयस्यैतदन्यतरत्वमस्ति । तस्मात्पापक्षयफलत्वे प्रायश्चित्ते प्रवृत्तिरेव न स्यात्, पुरुषार्थानुबन्धाभावात् । किं च प्रायश्चित्तस्य पापक्षयफलत्वे नित्यादेः प्रायश्चित्तस्य को