This page has not been fully proofread.

वदान्तसार:
 
संध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्मा-
ग्रनुबन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि
 
पकत्वं न नित्यानामिति वाच्यम्, विशिष्टस्य ज्ञापकत्वे
विशेषणस्यापि ज्ञापकत्वात् । अथवा यद्यपि नित्यानाम-
करणस्य वा न प्रत्यवायहेतुत्वम्, तथापि नित्यकालेऽनु-
ष्ठितक्रियाया एव स्वतन्त्रप्रत्यवाय हेतुत्वम्, 'अकुर्वन्'
इति शतृप्रत्ययस्य 'विहितस्याननुष्ठानात्' इति पञ्चम्या-
श्वाकरणस्य नियतपूर्ववृत्तित्वमात्रे तात्पर्यात्, यथा 'तत्त्व-
ज्ञानान्निःश्रेयसाधिगमः' इति न्यायसूत्रे पञ्चम्या: । मूले-
ऽपि नित्यान्यकरणे प्रत्यवायसाधनानीत्यनेन नित्याकरणस्य
प्रत्यवायनियतपूर्ववृत्तित्वमेवोच्यत इति सर्वमवदातम् ।
नैमित्तिकानीति । एतदकरणस्यापि प्रत्यवायज्ञापकत्वं तन्नि-
यतपूर्ववृत्तित्वं वा द्रष्टव्यम् । पुत्रेति । 'वैश्वानरं द्वादशक-

पालं निर्वपेत्पुत्रे जाते' इति श्रुतेरित्यर्थ: । प्रायश्चित्तानीति ।
अत्र वदन्ति - न प्रायश्चित्तानां पापक्षयः फलम् अपुरु-
षार्थत्वात् । पुरुषार्थो हि सुखं दुःखाभावो वा । न च पाप-
क्षयस्यैतदन्यतरत्वमस्ति । तस्मात्पापक्षयफलत्वे प्रायश्चित्ते
प्रवृत्तिरेव न स्यात् पुरुषार्थानुबन्धाभावात् । किं च
प्रायश्चित्तस्य पापक्षयफलत्वे नित्यादेः प्रायश्चित्तस्य को
 
9