This page has been fully proofread once and needs a second look.


त्वेन प्रागभावानुपपत्ते: । न द्वितीय:, अन्याकरणे प्रत्य-
वायप्रागभावपरिपालनस्य एतत्फलत्वेऽन्यकरणव्यर्थतापत्तेः ।
तस्मान्नाकरणे प्रत्यवायप्रागभावपरिपालनं भाव्यम् । किं तु
ज्ञानाज्ञानकृतानां पापानां क्षय एव, तस्य सर्वदेप्सित-
त्वात् । एवं च न नित्यानामकरणे स्वतन्त्रप्रत्यवायोत्पादः,
पूर्वोक्तरीत्या कारणाभावात् । किं तु न पापक्षय इति तत्र
पापं तिष्ठति । तस्य च पापस्य नित्यानामकरणं ज्ञापकम् ,
' अकुर्वन्विहितं कर्म ' इति शतृप्रत्ययस्य लक्षणार्थत्वात् ,
' लक्षणहेत्वोः क्रियायाः ' इत्युक्तत्वात् । न च अकरणस्य
ज्ञापकत्वमपि कथम् ; ज्ञापकत्वं हि ज्ञानजनकत्वम् , न
च अभावस्य तत्संभवतीति वाच्यम् , जनकज्ञानविषयस्यैव
गमकत्वात् । धूमादेरपि वह्निगमकत्वं न तज्ज्ञानजनकत्वम् ,
अतीतादौ व्यभिचारात् । किं तु तादृशज्ञानविषयत्वमेव ।
तथा च अकरणज्ञानस्य जनकत्वान्नाकरणस्य जनकत्वप्र-
सङ्ग: । न च ' विहितस्याननुष्ठानात् ' इति पञ्चम्या
अकरणस्य हेतुत्वं बोध्यत इति वाच्यम् । अभा-
वस्य हेतुत्वानुपपत्त्या पञ्चम्या ज्ञापकत्वार्थत्वात् । एवं च
नित्यानामकरणं प्रत्यवायज्ञापकम् । तथा च अकरणे साध-
नानि ज्ञापकानीत्यर्थः । न च नित्याकरणस्यैव प्रत्यवायज्ञा-