This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
१५
 

त्वेन प्रागभावानुपपत्ते: । न द्वितीय:, अन्याकरणे प्रत्य-

वायप्रागभावपरिपालनस्य एतत्फलत्वेऽन्यकरणव्यर्थतापत्तेः ।

तस्मान्नाकरणे प्रत्यवायप्रागभावपरिपालनं भाव्यम् । किं तु

ज्ञानाज्ञानकृतानां पापानां क्षय एव, तस्य सर्वदेप्सित-

त्वात् । एवं च न नित्यानामकरणे स्वतन्त्रप्रत्यवायोत्पादः,

पूर्वोक्तरीत्या कारणाभावात् । किं तु न पापक्षय इति तत्र

पापं तिष्ठति । तस्य च पापस्य नित्यानामकरणं ज्ञापकम् ,

'
अकुर्वन्विहितं कर्म ' इति शतृप्रत्ययस्य लक्षणार्थत्वात् ,

' लक्षणहेत्वोः क्रियायाः ' इत्युक्तत्वात् । न च अकरणस्य

ज्ञापकत्वमपि कथम् ; ज्ञापकत्वं हि ज्ञानजनकत्वम् , न

च अभावस्य तत्संभवतीति वाच्यम् , जनकज्ञान विषयस्यैव

गमकत्वात् । धूमादेरपि वह्निगमकत्वं न तज्ज्ञानजनकत्वम् ,

अतीतादौ व्यभिचारात् । किं तु तादृशज्ञानविषयत्वमेव ।

तथा च अकरणज्ञानस्य जनकत्वान्नाकरणस्य जनकत्वप्र-

सङ्ग: । न च '
विहितस्याननुष्ठानात् ' इति पञ्चम्या

अकरणस्य हेतुत्वं बोध्यत इति वाच्यम् 1 अभा-

वस्य हेतुत्वानुपपत्त्या पञ्चम्या ज्ञापकत्वार्थत्वात् । एवं च

नित्यानामकरणं प्रत्यवायज्ञापकम् । तथा च अकरणे साध-

नानि ज्ञापकानीत्यर्थः । न च नित्याकरणस्यैव प्रत्यवायज्ञा-
सङ्गः
 

 
6
 
6