This page has been fully proofread once and needs a second look.


नादीनि । नित्यान्यकरणे प्रत्यवायसाधनानि
 
[Commentary]
 
इति शेष इति केचित् । तन्न , प्रायश्चित्तदशायामपि ब्रह्म-
हत्यादेरनिष्टसाधनत्वानपायात् । न हि साधनपदेनात्र फलो-
पधानं विवक्षितमस्ति , मानाभावात् । एवं वर्जनीयान्युक्त्वा
अनुष्ठेयान्याह --- नित्यानीति । ननु किं नित्यानाम् अकरणे
प्रत्यवायसाधनत्वम् ; अकरणस्य वा । नाद्यः , तदानीं नित्या-
भावेन कारणत्वानुपपत्ते: । न ह्यसतः कारणत्वं संभवति ।
न द्वितीय: , अकरणस्याभावत्वेन सिद्धान्ते तस्य कारणत्वा-
भावात् , ग्रन्थविरोधाच्चेति चेत् ; उच्यते --- नित्यानि
तावद्विधिविहितानि । विधिश्च भाव्यमन्तरेणानुपपन्न: किं-
चिद्भाव्यं कल्पयति । न च विश्वजिन्न्यायेन स्वर्गो
भाव्यतया कल्पयितुं युक्तः, सदा स्वर्गकामनाया अभावेन
कदाचिदननुष्ठानप्रसङ्गात् । न च अकरणे प्रत्यवायप्रागभाव-
परिपालनं फलमिति वाच्यम् । तथा सति प्रागभाववतः
कार्यस्योत्पत्तिनियमेन नित्यानुष्ठानानन्तरमपि कदाचित्प्र-
त्यवायोत्पत्तिप्रसङ्गात् । अत एव दुःखप्रागभावपरिपालनं
न मोक्ष इत्युक्तं न्यायग्रन्थेषु । किं च नित्यानां स्वाकरणे
प्रत्यवायस्य प्रागभावपरिपालनं फलम् , उतान्याकरणप्रत्य-
वायस्य । नाद्यः, तदानीं तादृशप्रत्यवायस्य खपुष्पतुल्य-