This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
"
 

नादीनि । नित्यान्यकरणे प्रत्यवायसाधनानि

 
[Commentary]
 
इति शेष इति केचित् । तन्न, प्रायश्चित्तदशायामपि ब्रह्म-

हत्यादेरनिष्टसाधनत्वानपायात् । न हि साधनपदेनात्र फलो-

पधानं विवक्षितमस्ति, मानाभावात् । एवं वर्जनीयान्युक्त्वा

अनुष्ठेयान्याह --- नित्यानीति । ननु किं नित्यानाम् अकरणे

प्रत्यवायसाधनत्वम् ; अकरणस्य वा । नाद्यः, तदानीं नित्या-

भावेन कारणत्वानुपपत्ते: । न ह्यसतः कारणत्वं संभवति ।

न द्वितीय:, अकरणस्याभावत्वेन सिद्धान्ते तस्य कारणत्वा-
भावात्

भावात् ,
ग्रन्थविरोधाच्चेति चेत् ; उच्यते - नित्यानि
-- नित्यानि
तावद्विधिविहितानि । विधिश्च भाव्यमन्तरेणानुपपन्न: किं-

चिद्भाव्यं कल्पयति । न च विश्वजिन्न्यायेन स्वर्गो

भाव्यतया कल्पयितुं युक्तः, सदा स्वर्गकामनाया अभावेन

कदाचिदननुष्ठानप्रसङ्गात् । न च अकरणे प्रत्यवायप्रागभाव-

परिपालनं फलमिति वाच्यम् । तथा सति प्रागभाववतः

कार्यस्योत्पत्तिनियमेन नित्यानुष्ठानानन्तरमपि कदाचित्प्र-

त्यवायोत्पत्तिप्रसङ्गात् । अत एव दुःखप्रागभावपरिपालनं

न मोक्ष इत्युक्तं न्यायग्रन्थेषु । किं च नित्यानां स्वाकरणे

प्रत्यवायस्य प्रागभावपरिपालनं फलम् , उतान्याकरणप्रत्य-

वायस्य । नाद्यः, तदानीं तादृशप्रत्यवायस्य खपुष्पतुल्य-
१४